सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
---वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
---तैत्तिरीय-संहितायां ४-४-११
zuci-mAsaH, marked by the transit of Sun into the 4th division of the tropical zodiac.Names
- Sanskrit
- शुचि-मासः