Timing
Caitra (चैत्र) māsa, Śukla Pakṣa Navamī, at मध्याह्नः
(paraviddha tithi rule)
चैत्रशुक्लनवम्यां तु मध्याह्ने रघुनन्दनः।
दशाननवधाकाङ्क्षी जज्ञे रामः स्वयं हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
अकरणे दोषमाह स्मृतिः---
यस्तु रामनवम्यां वै मोहाद्भुक्ते नराधमः।
कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः॥
(कृत्यसारसमुच्चयः)
श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदं प्रति शिवोपदेशे भक्ष्याभक्ष्यादिविवरणं नाम सप्तविंशतितमोऽध्यायः---
जन्माष्टमीदिने रामनवमीदिवसे हरेः।
शिवरात्रौ च यो भुङ्क्ते सोऽपि द्विगुणपातकी॥११॥
Names
- Sanskrit
- श्रीरामनवमी