Calendrical Specials

शयन-एकादशी

śayana-ekādaśī

MonthlyVratamEkadashiVratam

हेमाद्रौ ब्राह्मे---
एकादश्यां तु शुक्लायामाषाढे भगवान् हरिः।
भुजङ्गशयने शेते यदा क्षीरार्णवे स्वयम्॥
तदा तत्प्रतिमा कार्या सर्वलक्षणसंयुता।
सुप्ता तु शेषपर्यङ्के शैलमृद्भिस्तु चारुभिः॥
ताम्रारकूटसहितैस्तथा चित्रपटेषु वा।
लक्ष्म्या उत्सङ्गहस्ते च विन्यस्तचरणाम्बुजा॥
[लक्षम्या स्वहस्तविन्यस्तमनोज्ञचरणाम्बुजा। इत्यपि पाठः।]
[उत्सङ्गहस्ते उत्सङ्गस्थितहस्ते।]
नानाविधोपकरणैः पूज्या च विधिपूर्वकम्।
उपवासश्च कर्तव्यो रात्रौ जागरणं तथा।
तस्यां रात्र्यां व्यतीतायां द्वादश्यां पूजयेत् तथा।
त्रयोदश्यां ततो गीतं वाद्यं नृत्यं निवेदयेत्।
पुराणसमुच्चये---
आषाढस्य सिते पक्षे एकादश्यामुपोषितः।
स्थापयेत् प्रतिमां तत्र शङ्खचक्रगदाधराम्॥
पीताम्बरधरां सौम्यां पर्यङ्के स्वास्तृते शुभे।
शुक्लवस्त्रसमाच्छन्ने सोपधाने युधिष्ठिर॥
इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुमान्।
स्नापयित्वा दधिक्षीरघृतक्षौद्रजलैस्तथा॥
समालभ्य शुभैर्गन्धैर्धूपैर्दीपैरलङ्कृताम्।
पूजितां कुसुमैः शुक्लैर्मन्त्रेणानेन पाण्डव॥
मन्त्रश्च---
सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम्।
विबुद्धे त्वयि बुध्येत तत्सर्व सचराचरम्॥

वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
--पद्मपुराणे

श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदं प्रति शिवोपदेशे भक्ष्याभक्ष्यादिविवरणं नाम सप्तविंशतितमोऽध्यायः---
एकादश्यामनाहारं गृही विप्रश्च भारते।
स च तिष्ठति वैकुण्ठे यावद्वै ब्रह्मणो वयः॥१४॥

एकादश्युपवासफलं प्रोक्तं पाद्ममहापुराणे---
शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्॥३५॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
सङ्क्रान्तिषु चतुर्लक्षं यो ददाति नृपोत्तम॥३६॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः॥३७॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते॥३८॥
तथा चैकादशी पार्थ गर्भवासक्षयङ्करी।
अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत्॥३९॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
तपस्विनो गृहे यस्य भुञ्जते च द्विजोत्तमाः॥४०॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
गोसहस्रेण यत्पुण्यं दत्वा वेदान्तपारगे॥४१॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः॥४२॥
वसन्ति तेषां ते तुल्या एकादश्युपवासिनः।
ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः॥४३॥
एकादशीव्रतस्यापि पुण्यसङ्ख्या न विद्यते।
एतत्पुण्यं भवेत् तस्य यत्सुरैरपि दुर्लभम्॥४४॥
एकादशीसमं नास्ति व्रतं पापप्रणाशनम्॥११८॥
---श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे एकादश्युत्पत्ति-मुरवधो नाम चत्वारिंशोऽध्यायः॥४०॥

Bhagavan Vishnu goes to sleep for four months beginning today.

Names

Sanskrit
शयन-एकादशी, देवशयनी एकादशी

View source TOML on GitHub ↗