Calendrical Specials

शयन-एकादशी

śayana-ekādaśī

MonthlyVratamEkadashiVratamLessCommonFestivals

हेमाद्रौ ब्राह्मे—
एकादश्यां तु शुक्लायामाषाढे भगवान् हरिः।
भुजङ्गशयने शेते यदा क्षीरार्णवे स्वयम्॥
तदा तत्प्रतिमा कार्या सर्वलक्षणसंयुता।
सुप्ता तु शेषपर्यङ्के शैलमृद्भिस्तु चारुभिः॥
ताम्रारकूटसहितैस्तथा चित्रपटेषु वा।
लक्ष्म्या उत्सङ्गहस्ते च विन्यस्तचरणाम्बुजा॥
[लक्षम्या स्वहस्तविन्यस्तमनोज्ञचरणाम्बुजा। इत्यपि पाठः।]
[उत्सङ्गहस्ते उत्सङ्गस्थितहस्ते।]
नानाविधोपकरणैः पूज्या च विधिपूर्वकम्।
उपवासश्च कर्तव्यो रात्रौ जागरणं तथा।
तस्यां रात्र्यां व्यतीतायां द्वादश्यां पूजयेत् तथा।
त्रयोदश्यां ततो गीतं वाद्यं नृत्यं निवेदयेत्।
पुराणसमुच्चये—
आषाढस्य सिते पक्षे एकादश्यामुपोषितः।
स्थापयेत् प्रतिमां तत्र शङ्खचक्रगदाधराम्॥
पीताम्बरधरां सौम्यां पर्यङ्के स्वास्तृते शुभे।
शुक्लवस्त्रसमाच्छन्ने सोपधाने युधिष्ठिर॥
इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुमान्।
स्नापयित्वा दधिक्षीरघृतक्षौद्रजलैस्तथा॥
समालभ्य शुभैर्गन्धैर्धूपैर्दीपैरलङ्कृताम्।
पूजितां कुसुमैः शुक्लैर्मन्त्रेणानेन पाण्डव॥
मन्त्रश्च—
सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम्।
विबुद्धे त्वयि बुध्येत तत्सर्व सचराचरम्॥

वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
--पद्मपुराणे

श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदं प्रति शिवोपदेशे भक्ष्याभक्ष्यादिविवरणं नाम सप्तविंशतितमोऽध्यायः—
एकादश्यामनाहारं गृही विप्रश्च भारते।
स च तिष्ठति वैकुण्ठे यावद्वै ब्रह्मणो वयः॥१४॥

एकादश्युपवासफलं प्रोक्तं पाद्ममहापुराणे—
शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्॥३५॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
सङ्क्रान्तिषु चतुर्लक्षं यो ददाति नृपोत्तम॥३६॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः॥३७॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते॥३८॥
तथा चैकादशी पार्थ गर्भवासक्षयङ्करी।
अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत्॥३९॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
तपस्विनो गृहे यस्य भुञ्जते च द्विजोत्तमाः॥४०॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
गोसहस्रेण यत्पुण्यं दत्वा वेदान्तपारगे॥४१॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः॥४२॥
वसन्ति तेषां ते तुल्या एकादश्युपवासिनः।
ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः॥४३॥
एकादशीव्रतस्यापि पुण्यसङ्ख्या न विद्यते।
एतत्पुण्यं भवेत् तस्य यत्सुरैरपि दुर्लभम्॥४४॥
एकादशीसमं नास्ति व्रतं पापप्रणाशनम्॥११८॥
—श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे एकादश्युत्पत्ति-मुरवधो नाम चत्वारिंशोऽध्यायः॥४०॥

Bhagavan Vishnu goes to sleep for four months beginning today.

Names

Sanskrit
शयन-एकादशी, देवशयनी एकादशी

Citations

  • Smriti Kaustubham p.138-9

View source TOML on GitHub ↗