Calendrical Specials

शनिवार-शुक्ल-प्रदोष-व्रतम्

śanivāra-śukla-pradoṣa-vratam

MonthlyVratamPradoshaVratam

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥
मदनरत्न-निर्णयामृतान्तर्गतस्कन्दपुराणवचनानि---
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥
पुरुषार्थचिन्तामणौ---
तस्मादुभयत्र प्रदोषव्याप्तावव्याप्तौ साम्येनैकदेशव्याप्तौ पूर्वप्रदोषेऽधिकव्याप्तावुत्तरप्रदोषे न्यूनव्याप्तावप्युत्तरदिन एव
प्रदोषव्रतानुष्ठानमिति सिद्धमिति विभावनीयमिति दिक्।

Pradosha Vratam. Fast during the day and perform zivapUjA in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Saturday in the bright fortnight — it is the ideal day to start this vratam for obtaining satsantAnam.

Names

Sanskrit
शनिवार-शुक्ल-प्रदोष-व्रतम्

View source TOML on GitHub ↗