General Observances

यम/भ्रातृ-द्वितीया

yama òr bhrātṛ-dvitīyā

CommonFestivals
Timing Kārtika (कार्तिक) māsa, Śukla Pakṣa Dvitīyā, at अपराह्णः (paraviddha tithi rule)

कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर।
यमो यमुनया पूर्वं भोजितः स्वगृहे तदा॥१८॥
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः।
पापेभ्यो विप्रमुक्तास्ते मुक्ताः सर्वे विबन्धना।
भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया॥१९॥
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः।
ततो यमद्वितीया सा प्रोक्ता लोके युधिष्ठिर॥२०॥
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्धनम्॥२१॥
दानानि च प्रदेयानि भगिनीभ्यो विधानतः।
स्वर्णालङ्कारवस्त्राद्यैः पूजासत्कारभोजनैः॥२२॥
सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपत्तिगाः।
पितृव्यभगिनी हस्तात् प्रथमायां युधिष्ठिर॥२३॥
मातुलस्य सुताहस्ताद् द्वितीयायां पुनर्नृप।
पितृमातृस्वसारौ ये तृतीयायां तयोः करात्॥२४॥
भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम्।
सर्वासु भगिनीहस्ताद् भोक्तव्यं बलवर्धनम्॥२५॥
धन्यं यशस्यमायुष्यं धर्मकामार्थवर्धनम्।
व्याख्यातं सकलं स्नेहात् सरहस्यं मया तव॥२६॥
यस्यां तिथौ यमुनया यमराजदेवः
सम्भोजितो जगति सत्वरसौहृदेन।
तस्यां स्वसुः करतलादिह यो भुनक्ति
प्राप्नोति वित्तमथ भोज्यमनुत्तमं सः॥२७॥
—इति श्रीभविष्ये महापुराणे उत्तर-पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमद्वितीयाव्रतमाहात्म्यं नाम चतुर्दशोऽध्यायः॥१४॥
नारद उवाच—
भगवन्प्रष्टुमिच्छामि त्वामहं विनयान्वितः।
तद्व्रतं ब्रूहि मे मर्त्यो मृत्युं येन न पश्यति॥१॥
ब्रह्मोवाच—
यदि पृच्छसि विप्रेन्द्र व्रतानामुत्तमं व्रतम्।
व्रतं यमद्वितीयाख्यं शृणु त्वं मृत्युनाशनम्॥२॥
कार्तिके मासि शुद्धायां द्वितीयायां मुनीश्वर।
कर्तव्यं तद्विधानेन सर्वमृत्युनिवारणम्॥३॥
...
कथां यमद्वितीयाया व्रतस्थः शृणुयान्नरः।
तस्य सर्वाणि पापानि नश्यन्तीत्याह माधवः॥२९॥
सूत उवाच—
कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत्।
भानुजायां नरः स्नात्वा यमलोकं न पश्यति॥३०॥
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक।
यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः॥३१॥
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः।
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वे निबन्धनात्॥३२॥
अत्राऽऽशिताश्च सन्तुष्टाः स्थिताः सर्वे यदृच्छया।
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः॥३३॥
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता।
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः॥३४॥
स्नेहेन भगिनीहस्ताद्भोक्तव्यं बलवर्धनम्।
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः॥३९॥
...
यमुनोवाच—
प्रतिवर्षं समागच्छ भोजनार्थं तु मद्गृहे॥५०॥
अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम।
येऽद्यैव भगिनीहस्तात्करिष्यन्ति च भोजनम्।
तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम्॥५१॥
यम उवाच—
यमुनायां तु यः स्नात्वा सन्तर्प्य पितृदेवताः॥५२॥
भुङ्क्ते च भगिनीगेहे भगिनीं पूजयेदपि।
कदाचिदपि मद्द्वारं न स पश्यति भानुजे॥५३॥
वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम्।
तत्र स्नात्वा च विधिवत्सन्तर्प्य पितृदेवताः॥५४॥
पठेदेतानि नामानि आमध्याह्नं नरोत्तमः।
सूर्यस्याभिमुखो मौनी हृतचित्तः स्थिरासनः॥५५॥
यमो निहन्ता पितृधर्मराजो
वैवस्वतो दण्डधरश्च कालः।
भूताधिपो दत्तकृतानुसारी।
कृतान्तमेतद्दशभिर्जपन्ति॥५६॥
ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत्।
मन्त्रेणानेन च तया भोजितः पूर्वमादरात्॥५७॥
भ्रातस्तवानुजाताऽहं भुङ्क्ष्व भक्तमिदं शुभम्।
प्रीतये यमराजस्य यमुनाया विशेषतः॥५८॥
ततः सन्तोष्य भगिनीं वस्त्रालङ्करणादिभिः।
स्वप्नेऽपि यमलोकस्य भविष्यति न दर्शनम्॥५९॥
नृपैः कारागृहे ये च स्थापिता मम वासरे।
अवश्यं ते प्रेषणीया भोजनार्थं स्वसुर्गृहे॥६०॥
विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे।
येऽद्य बन्दी करिष्यन्ति ते ताड्या मम सर्वथा॥६१॥
कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत्।
तदभावे सपत्यायाः पितृव्यजागृहे ततः॥६२॥
तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा।
सापत्नगोत्रसम्बन्धैः कल्पयेदथवा क्रमम्॥६३॥
सर्वाभावे माननीया भगिनी काचिदेव हि।
गोनद्याद्यथवा तस्या अभावे सति कारयेत्॥६४॥
तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम्।
अस्यां निजगृहे देवि न भोक्तव्यं कदाचन॥६५॥
ये भुञ्जते दुराचारा नरके ते पतन्ति च।
एवमुक्त्वा धर्मराजो ययौ संयमिनीं ततः॥६६॥
तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः।
भुञ्जते भगिनीहस्तात्सत्यं सत्यं न संशयः॥६७॥
यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम्।
न कुर्याद्वर्षजं पुण्यं नश्यतीति रवेः श्रुतिः॥६८॥
या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ।
अर्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात्॥६९॥
भ्रातुरायुःक्षयो नूनं न भवेत्तत्र कर्हिचित्।
अपराह्णव्यापिनी सा द्वितीया भ्रातृभोजने॥७०॥
अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे।
प्रवासिना ह्यभावाद्वा ज्वरितेनाथ बन्दिना॥७१॥
एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत्।
कार्तिके तु विशेषेण धात्रीछायां समाश्रितः॥७२॥।
भोजनं कुरुते यस्तु स वैकुण्ठमवाप्नुयात्॥७३॥।
—इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये यमद्वितीयामाहात्म्यवर्णनं नामैकादशोऽध्यायः॥११॥

The details of Yama Dvitiya are propounded in both Narada Purana and Skanda Purana. In Skanda Purana,Nārada asks Brahmā about a vrata that protects one from death, and Brahmā replies that the Yama Dvitīyā, performed on the second day of the bright fortnight of Kārttika, is the most effective. After an early morning bath, worship of deities (Brahmā, Viṣṇu, Rudra, and Sarasvatī), and the gifting of a cow or footwear to a learned Brāhmaṇa, one must visit his sister’s home, bow to her, and partake food prepared by her. One should also worship Yama, by chanting His 10 names. The story recounts how Yamunā invited her brother Yama to dine at her house after much delay; when he finally came, he blessed her that all brothers who eat at their sisters’ homes on this day would avoid Yama’s realm and gain prosperity. Those without sisters may instead honour female relatives or symbolically treat a cow, river, or forest as sister. On no count must one eat at his own place on this day! For those unable to do this, mere listening to this story devoutly bestows the same fruit.

Names

Sanskrit
यम/भ्रातृ-द्वितीया
Lunar Month Kārtika
Tithi Dvitīyā

View source TOML on GitHub ↗