वृषसङ्क्रमणे दानं गवां प्रोक्तं तथैवच॥
---स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
---वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडशः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
---वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
viSNupadI-puNyakAla like vRSabha-saGkramaNa, the 16 ghatikas preceding and succeeding the saGkramaNa form a puNyakAla; in general, the ghatikas closer to the puNyakAla are even more sacred.Names
- Sanskrit
- वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः