उक्तञ्च भविष्योत्तरे---
श्रावणशुक्लपूर्णिमोपान्तभार्गवदिने वरलक्ष्मीव्रतं कार्यम्।
श्रावणस्य सिते पक्षे पूर्णिमोपान्तभार्गवे।
वरलक्ष्मीव्रतं कार्यं मोक्षसम्पत्फलप्रदम्॥ इति।
यदा पूर्णिमायामेव भृगुवारः सम्भवति तस्मिन्नेव दिने वरलक्ष्मीव्रतं कार्यम्।
नोपान्तभार्गवदिने। उक्तं च कौमुद्याम्---
यस्मिन् वै श्रावणे मासि शुक्लान्ते तु भृगोर्दिने।
प्रारभ्य तद्व्रतं तत्र वरलक्ष्म्या यतात्मभिः॥ इति।
Names
- Sanskrit
- वरलक्ष्मी-व्रतम्
Sources cited
- VrataNirnayaKalpavalli