General Observances

वैशाख-पूर्णिमा-स्नानम्

vaiśākha-pūrṇimā-snānam

SpecialSnanam
Timing Vaiśākha (वैशाख) māsa, Śukla Pakṣa Pūrṇimā, at प्राक्तनारुणोदयः (paraviddha tithi rule)

उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः।
तत्र स्नानं प्रशंसन्ति स हि पुण्यतमः स्मृतः॥
बलं रूपं यशो धर्मं ज्ञानमायुः सुखं धृतिम्।
आरोग्यं परमाप्नोति सम्यक् स्नानेन मानवः॥
भविष्ये---
वैशाखी कार्तिकी माघी ह्याषाढ्यप्यतिपुण्यदाः।
स्नानदानविहीना वै तासु रौरवगामिनः॥
कृत्यसारसमुच्चये---
वैशाखपूर्णिमामभिधाय विष्णुपुराणे---
कृष्णाजिनं तिलान् कृष्णान् हिरण्यं मधुसर्पिषी।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम्॥ इति।
अस्यां गङ्गास्नाने ओं अद्येत्यादि गङ्गास्नानजन्यफलसहस्रगुणाधिकफलप्राप्तिकामो गङ्गायां स्नानमहं करिष्ये।
स्मृति-कौस्तुभे---
निर्णयामृते यमगाथासु---
यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम्।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलङ्कृतम्॥
वैशाख्यां पौर्णमास्यां तु विशाखासु विशेषतः।
ससमुद्रगुहा तेन सशैलवनकानना।
सप्तद्वीपान्विता दत्ता पृथिवी नात्र संशयः॥

Perform snana four ghatikas before sunrise (during aruNOdayaH, when the Moon is still up, on the full-moon days of ASADha, kArttika, mAgha and vaizAkha – hence the name A-kA-mA-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Names

Sanskrit
वैशाख-पूर्णिमा-स्नानम्
Lunar Month Vaiśākha

Sources cited

  • Vrata Nirnaya Kalpavalli

View source TOML on GitHub ↗