Calendrical Specials

वैशाख-मास-आरम्भः

vaizAkha-mAsa-ArambhaH

SpecialDaysSpecialPeriodStart
Timing Vaiśākha (वैशाख) māsa, Śukla Pakṣa Pratipat

वैशाखे मासि यो दद्यात् तक्रं तापविनाशनम्॥४१॥
विद्यावान् धनवान् भूमौ जायते नात्र संशयः।
न तक्रसदृशं दानं घर्मकालेषु विद्यते॥४२॥
तस्मात्तक्रं प्रदातव्यमध्वश्रान्तद्विजातये।
जम्बीरसुरसोपेतं लसल्लवणमिश्रितम्॥४३॥
यस्तक्रमरुचिघ्नं तु दत्त्वा मोक्षमवाप्नुयात्।
यो दद्याद्दधिखण्डं तु वैशाखे घर्मशान्तये॥४४॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप।
यो दद्यात् तण्डुलान् दिव्यान् मधुसूदनवल्लभे॥४५॥
स लभेत् पूर्णमायुष्यं सर्वयज्ञफलं लभेत्।
यो घृतं तेजसो रूपं गव्यं दद्याद् द्विजातये॥
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमन्दिरे॥४६॥
उर्वारुगुडसम्मिश्रं वैशाखे मेषगे रवौ।
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद् ध्रुवम्॥४७॥
यश्चेक्षुदण्डं सायाह्ने दिवा तापोपशान्तये।
ब्राह्मणाय च यो दद्यात् तस्य पुण्यमनन्तकम्॥४८॥
वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये।
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्॥४९॥
सफलं पानकं मेषमासे सायं द्विजातये।
दद्यात् तेन पितॄणां तु सुधापानं न संशयः॥५०॥
वैशाखे पानकं चूतसुपक्वफलसंयुतम्।
तस्य सर्वाणि पापानि विनाशं यान्ति निश्चितम्॥५१॥
—स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये
वैशाखकृत्यं महाभारते---
निश्चरेदेकभक्तेन वैशाखे यो जितेन्द्रियः।
प्रातःस्नायी नरः स्त्री वा जातीनां श्रेष्ठतां व्रजेत्॥ इति।
वामनपुराणे---
गन्धमाल्यानि च तथा वैशाखे सुरभीणि च।
देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये॥ इति।

vaizAkha-mAsaH begins today — special for various dAnam’s such as buttermilk, pAnakam etc. Brings unlimited puNyam! In the Mahābhārata, it is said that one who, with controlled senses (jitendriyaḥ), observes the month of Vaiśākha with ekabhakta discipline (one meal a day), and bathes early in the morning — whether man or woman — attains excellence among their community. In the Vāmana Purāṇa, it is stated that during Vaiśākha, one should offer fragrant garlands and perfumes to distinguished brāhmaṇas to please Madhusūdana (Viṣṇu).

Names

Sanskrit
वैशाख-मास-आरम्भः
Tithi Pratipat

Sources cited

  • Purushartha Chintamani (Anandashrama), p. 7-10

View source TOML on GitHub ↗