Timing
Bhādrapada (भाद्रपद) māsa, Śukla Pakṣa Pūrṇimā, at सूर्योदयः
(paraviddha tithi rule)
परविद्धा ग्राह्या। तथा चोक्तं भविष्योत्तरे।
स्कान्दे---
भाद्रपदशुक्लपूर्णिमायामुमामहेश्वरव्रतं कार्यम्।
सा पूर्वाह्णव्यापिनी
नभस्ये पूर्णिमायां तु पूर्वाह्ने च विशेषतः।
उमामहेश्वरं नाम व्रतं यज्ञफलप्रदम्॥ इति।
मासि भाद्रपदे शुक्ले पूर्णमास्यामिनोदये।
कुर्यात्तत्रैव विधिवदुमामाहेश्वरव्रतम्॥ इति।
इनोदय इत्यत्र पूर्णिमा या दिनद्वयव्याप्तौ चतुर्दशीसहितां विहाय प्रतिपत्सहितायामेव
पूर्णिमायामुमामहेश्वराख्यव्रतं कुर्यात्। नात्र त्रिमुहूर्तवेधोऽपेक्षणीयः। इनोदय
इत्युक्तत्वाद्दिनद्वयेऽप्युदयव्याप्तौ पूर्णत्वात् पूर्वैवेति युक्तमुत्पश्यामः।
Names
- Sanskrit
- उमा-महेश्वर-व्रतम्
Sources cited
- VrataNirnayaKalpavalli