महादेव उवाच---
द्विजैतत् त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्।
श्रुत्वा तु लभते पुण्यं गङ्गातीर्थफलं लभेत्॥७८॥
अश्वमेधसहस्राणि वाजपेयशतानि च।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥७९॥
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः।
तैः सर्वैः सह सम्भुक्तो विष्णुलोके महीयते॥८०॥
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥८१॥
ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः।
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः॥८२॥
ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम।
मन्त्राणां मन्त्रराजोऽथ यथा स्याद् द्वादशाक्षरः॥८३॥
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता।
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता॥८४॥
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी।
---श्रीपाद्मे महापुराण उत्तरखण्ड उमापतिनारदसंवादे त्रिस्पृशाख्यानं नाम पञ्चत्रिंशोऽध्यायः॥३५॥
कृत्यसारसमुच्चये कार्तिकमासकृत्ये स्मृति-वचनम्---
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी।
त्र्यहस्पृशमहोरात्रं तत्र साहस्रिकं फलम्॥ इति। साहस्रिकं सहस्रगुणम्।
dvAdazAkSarI is, among mantras. It is the foremost of vows for those who observe it. It was first followed by Brahmā and then by royal sages. What more can be said? Trispṛśā bestows (even) salvation.Names
- Sanskrit
- त्रिस्पृशा-महाद्वादशी