त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
---ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
---इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))
tripAdanakSatra is conjoined with a bhadrA tithi i.e. dvitIyA, saptamI or dvAdazI, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuSkara-yOgaH. When only two of these coincide, it is known as dvipuSkara. These are specially auspicious times, and are excluded for aparakarmas such as UnamAsikazrAddham.Names
- Sanskrit
- त्रिपुष्कर-योगः
Sources cited
- SmritiMuktaPhalam Part 5, SVR