Temple Festivals

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

tiruvizalUr_gaGgAkarSaNa-mahOtsava-samApanam

MahapurushaEventsTamilnaduTempleFestivals
Timing Kārtika (कार्तिक) māsa, Kṛṣṇa Pakṣa Amāvāsyā, at अपराह्णः (vyaapti tithi rule)

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितं
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यं
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

॥गङ्गाकर्षण-स्तोत्रम्॥
श्रीविष्णुपादसम्भूते शम्भुमूर्ध्नि निवासके।
द्विजानां प्रत्ययार्थं च कूपादस्मात्समुद्भव॥१॥
स्मरणात्पापशमने पीते सुज्ञानदायिनि।
शम्भुमूर्ध्नि सदा भासे कूपादस्मात्समुद्भव॥२॥
जगतामघनाशाय भुवनत्रयवाहिनि।
जाह्नवीति च विख्याते कूपादस्मात्समुद्भव॥३॥
भगीरथप्रयत्नेन सम्भवे भुवने ततः।
भागीरथीति विख्याते कूपादस्मात्समुद्भव॥४॥
वन्दे वाराणसीवासां वन्दे पतितपावनीम्।
वन्दे त्रिपथगां गङ्गां वन्दे त्वां कूपसम्भवाम्॥५॥
तव कल्लोलपूरैश्च त्वं ग्रामं विश शोभने।
ब्राह्मणानां सुबोधाय मद्वाक्यं सफलं कुरु॥६॥
उपसंहर पूरं च कूपे तिष्ठ सुमङ्गले।
भूयान्मातस्तव ख्यातिः कूपस्थानोद्भवेति च॥७॥
सहस्रमुखसङ्कीर्णे शतशब्दविलम्बिनि।
मामुद्धरापदम्बोधेर्नास्ति मे गतिरन्यथा॥८॥
एतत्स्तवं च यज्जिह्वा पठतः शृणुते शुचिः।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥९॥
एतद् ग्रामस्थकल्याणस्थैर्यार्थं जगदीश्वरि।
तवापि कूपतोयेऽस्मिन् स्थैर्यं भवतु कामदे॥१०॥
प्रतिदर्श च तोयेऽस्मिन् विशेषाद् वृश्चिके शुभे।
भक्त्या ये तु प्रकुर्वन्ति स्नानं तान्यावयानघे॥११॥
वाराणस्यां तु विश्वेशसन्निधौ तनुमार्जनम्।
कुर्वतां यत्फलं मातस्तदत्रापि प्रयच्छ नः॥१२॥
भगीरथमनोभीष्टसिद्धये भुवनाश्रिते।
ब्राह्मणानां मनःपूत्यै मम कूपे स्थिरा भव॥१३॥

॥गङ्गाष्टकम्॥
शम्भो भवन्नामनिरन्तरानुसन्धानभाग्येन भवन्तमेव।
यद्येष सर्वत्र तथाऽन्त्यजेऽद्य पश्यत्यहो कोऽत्र कृतोऽपराधः॥१॥
अस्त्वेष मन्तुः पितृयज्ञनिष्ठे गङ्गाप्लवो यो विहितोऽपचित्यै।
दूरात्तु तन्नामजपेन शुद्धिर्न स्यात् कथं मे स्मृतिरर्थवादः॥२॥
त्वन्नामनिष्ठा न हि तावती मे श्रद्धा यतः कर्मसु न प्रदग्धा।
त्रैशङ्कवं मे पशुपान्तरायो मुच्येय तस्मात्कथमार्तबन्धो॥३॥
यद्यद्य ते श्राद्धविनष्टिरिष्टा कोऽहं ततोऽन्यच्चरितुं समर्थः।
श्राद्धे वृताः पूर्वदिनोपवासा नान्यत्र भुञ्जीयुरिदं तु खिद्ये॥४॥
श्रद्धालवः श्राद्धविघातभीत्या स्वात्मोपरोधं विगणय्य धीराः।
यत्प्रोचुरत्रापचितिं महान्तस्तत्रोचितं यद्दयया विधेहि॥५॥
गङ्गाधर त्वद्भजनान्तरायभीत्या गृहे कूपकृतावगाहः।
जाने न तीर्थान्तरमद्य गङ्गामासादयेयं कथमार्तबन्धो॥६॥
नाहं तपस्वी सगरान्ववायो जाने न जह्नुश्चरति क्व वेति।
शम्भो जटाजूटमपावृणुष्वेत्यभ्यर्थने नालमयं वराकः॥७॥
गङ्गाधराख्या गतिरत्र नान्या तामाश्रये सङ्कटमोचनाय।
हन्त प्रवाहः कथमत्र कूपे विस्फूर्जतीशः खलु मे प्रसन्नः॥८॥
गङ्गेति गङ्गेति हरेति गृह्णन् आप्लावितोऽहं दयया पुरारेः।
कूपोत्थितोऽयं करुणाप्रवाहः गाङ्गश्चिरायात्र जनान् पुनातु॥९॥

॥इति श्रीमच्छ्रीधरवेङ्कटेशार्यकृतं गङ्गाष्टकं सम्पूर्णम्॥

Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

Names

Sanskrit
तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्
Month Kārtika

View source TOML on GitHub ↗