Calendrical Specials

सोमवती अमावास्या

somavatī amāvāsyā

RareDaysCombinationsAmavasyaDays

अमावास्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूणां च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

दुःस्वप्नं दुष्टचिन्तां च दुष्टज्वरपराभवान्।
विलयं नय पापानि पिप्पल त्वं हरिप्रिय॥
---स्कन्दपुराणे नागरखण्डे
कृत्यसारसमुच्चये---
सोमवत्या अमायास्तु व्रतं कृत्वा सती भवेत्।
पतिपुत्रधनैः पूर्णा जन्मजन्मनि निश्चितम्॥
विधवा चेत् करोतीदं न पुनर्विधवा क्वचित्।
तस्मात्स्त्रिया सुभगया कर्तव्यं खलु तद् व्रतम्॥
अत्र मासनियमो नास्ति। यदा कदा सोमवारयुक्ताऽमा भवेत् तदैव सोमवतीयोगः। अयं दिनान्तर्गत एव कर्तव्यः।

amAvAsyA on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

Names

Sanskrit
सोमवती अमावास्या

View source TOML on GitHub ↗