अत्रिः---
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
योगयाज्ञवल्क्यः---
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
व्याघ्रपादः---
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कात्यायनः---
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
अत्रापवादमाह मरीचिः---
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
मार्कण्डेयः---
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
वामनपुराणे---
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
यमः---
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
कालादर्शः---
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु–--
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायनः---
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
व्याघ्रपादः---
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥
Names
- Sanskrit
- सर्वनदी-रजस्वला