Devatā Observances

प्रेत-चतुर्दशी

preta-caturdaśī

LessCommonFestivals
Timing Āśvina (आश्विन) māsa, Kṛṣṇa Pakṣa Caturdaśī

ज्योतिर्निबन्धे—
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः।
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्॥
उल्काग्रहणतद्दानविसर्जनेषु मन्त्राः—
प्राच्यनिबन्धे—
शस्त्राशस्त्रहतानां च भूतानां भूतदर्शयोः।
उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना॥
अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम।
उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम्॥
यमलोकं परित्यज्य आगता ये महापथे।
उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते॥
लैङ्गे—
ततः प्रेतचतुर्दश्यां भोजयित्वा तपोधनान्।
शैवान् विप्रांस्त्वथ परान् शिवलोके महीयते।
दानं दत्त्वा तु तेभ्यश्च यमलोकं न गच्छति॥
माषपत्रस्य शाकेन भुक्त्वा तत्र दिने नरः।
प्रेतचतुर्दशीकाले सर्वपापैः प्रमुच्यते॥

Perform Deepa Danam for Yamadharmaraja in evening

Names

Sanskrit
प्रेत-चतुर्दशी
Lunar Month 07. Āśvina

Citations

  • Vrata Chudamani
  • Smriti Kaustubha p. 371

View source TOML on GitHub ↗