Timing
Vaiśākha (वैशाख) māsa, Śukla Pakṣa Dvādaśī
वैशाखशुक्लैकादश्यामुपोष्य सौवर्णं परशुरामं सम्पूज्य
द्वादश्यां ब्राह्मणाय दद्यादिति बोधायनः।
स्कान्देऽपि---
वैशाखे सितपक्षे च एकादश्यां नराधिप।
स्वर्णेन निर्मितं परशुरामं सम्पूज्य यत्नतः॥
द्वादश्यामुदये स्नात्वा समभ्यर्च्य पुनः पुनः।
दद्याद् विप्राय राजेन्द्र सर्वसम्पत्समृद्धये॥
Names
- Sanskrit
- परशुराम-द्वादशी
Sources cited
- VrataNirnayaKalpavalli