Timing
Mārgaśira (मार्गशिर) māsa, Śukla Pakṣa Saptamī, at अपराह्णः
(puurvaviddha tithi rule)
अदित्यां कश्यपाज्जज्ञे मित्रो नाम दिवाकरः।
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी॥
नारदीयपुराणे ११६ अध्याये---
मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम्।
यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह॥१८॥
अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः॥
अतोऽस्यां पूजनं तस्य यथोक्तं विधिना द्विज॥४९॥
कृत्वा द्विजान् भोजयित्वा सप्तैव मधुरादिना॥
सुवर्णदक्षिणां दत्त्वा विसृज्याश्नीत च स्वयम्॥५०॥
कृत्वैतद्विधिना लोकं सूर्यस्य व्रजति ध्रुवम्॥
द्विजो ब्राह्मं तथा शूद्रः सत्कुले जन्म चाऽऽप्नुयात्॥५१॥
Names
- Sanskrit
- मित्र-सप्तमी