Timing
Caitra (चैत्र) māsa, Kṛṣṇa Pakṣa Trayodaśī, at अपराह्णः
(puurvaviddha tithi rule)
सत्यव्रतोपदेशाय जिह्ममीनस्वरूपधृक्।
प्रलयाब्धिकृतावास गृहाणार्घ्यं नमोऽस्तु ते॥
प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः
श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा
दितिजमकथयद्यो ब्रह्म सत्यव्रतानां
तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि॥६१॥
---श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्विंशोऽध्यायः
चैत्रे मास्यसिते पक्षे त्रयोदश्यां तिथौ विभुः।
उदभून्मत्स्यरूपेण रक्षार्थमवनेर्हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
upavAsa etc. gives anantapuNyam.Names
- Sanskrit
- मत्स्य-जयन्ती
Sources cited
- Kielhorn (1897)