Calendrical Specials

मन्वादिः-(तामसः-[४])

manvādiḥ (tāmasaḥ [4])

ManvadiDays
Timing Bhādrapada (भाद्रपद) māsa, Śukla Pakṣa Tṛtīyā, at अपराह्णः (vyaapti tithi rule)

स्मृत्यन्तरे---
अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
मन्वन्तरादयो मत्स्यपुराणे दर्शिताः---
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
महाभारतेऽपि---
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
कालादर्शेऽपि---
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥
पुरुषार्थचिन्तामणौ मनुः---
सहस्रगुणितं दानं भवेद्दत्तं युगादिषु।
कर्म श्राद्धादिकं चैव तथा मन्वन्तरादिषु॥

Names

Sanskrit
मन्वादिः-(तामसः-[४])
Lunar Month Bhādrapada

View source TOML on GitHub ↗