Calendrical Specials

मन्वादिः-(रैवतः-[५])

manvādiḥ (raivataḥ [5])

ManvadiDaysLessCommonFestivals
Timing Phālguna (फाल्गुन) māsa, Kṛṣṇa Pakṣa Amāvāsyā, at अपराह्णः (vyaapti tithi rule)

स्मृत्यन्तरे—
अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
मन्वन्तरादयो मत्स्यपुराणे दर्शिताः—
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
महाभारतेऽपि—
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
कालादर्शेऽपि—
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥
पुरुषार्थचिन्तामणौ मनुः—
सहस्रगुणितं दानं भवेद्दत्तं युगादिषु।
कर्म श्राद्धादिकं चैव तथा मन्वन्तरादिषु॥

Names

Sanskrit
मन्वादिः-(रैवतः-[५])
Lunar Month 12. Phālguna

Citations

  • `vaidyanAtha-dIkSitIyam`
  • Purushartha Chintamani p. 507

View source TOML on GitHub ↗