Timing
Āṣāḍha (आषाढ) māsa, Śukla Pakṣa Aṣṭamī
निर्णयामृते देवीपुराणे---
अष्टम्यां च तथाऽऽषाढे निशातोयेन स्नापयेत्।
महिषघ्नीमिति शेषः। निशा हरिद्रा।
स्वयं स्नात्वा च कर्पूरैश्चन्दनस्तां विलेपयेत्।
धूपचन्दनकर्पूरैर्वालकैः सितसिह्लकैः॥
भक्ष्यान् शर्करया पूर्णान्पानकानि शुभानि च।
दापयेत् कन्यकाविप्रभोजनं चात्मनस्तथा॥
शक्तितो दक्षिणां दद्यान्महिषघ्नीं च कीर्तयेत्।
दीपमाला घृतेनैव सर्वान्कामान्प्रयच्छति॥
Names
- Sanskrit
- महिषघ्नी-पूजा