Devatā Observances

महाधनुर्व्यतीपात-श्राद्धम्

mahādhanurvyatīpāta-śrāddham

ShraddhaDays

व्यतीपात महाबाहो सर्वपापप्रणाशन।
सहस्रबाहो विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते॥
स्मृत्यन्तरे---
अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
संवर्तः---
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
भारद्वाजः---
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

पुरुषार्थचिन्तामणौ---
हेमाद्रौ याज्ञवल्क्यः---
शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
तत्रैव वाराहपुराणे---
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
---श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
---श्रीमद्भागवते ७-१४

vyatIpAta is regarded as the king of yOgas. Though it occurs 13 times every year, the occurrence in dhanurmAsa is special, and this day is special for a number of special observances, such as zivapUjA, pitRtarpaNam etc. One must also give arghyam with the shloka mentioned here, and perform the usual (dhanurmAsa) naivedyam of mudgAnnam. Markandeya Rishi has performed upadesham of a year-long vratam, beginning this day, including the pUja of vyatIpata-dEvatA. Puranas also narrate the story of rich merchant names Vishwasakha, who was born as a wild boar owing to denying food to a hungry vipra on Vyatipata day. Having lost half his body to a forest fire, the boar was redeemed from this plight by the Raja Haryashva, who passed by, and gave away his accrued merits from vyatIpAta-snAna-dAnam. As a result of this, the wild boar attained a divine form.

Names

Sanskrit
महाधनुर्व्यतीपात-श्राद्धम्

View source TOML on GitHub ↗