Devatā Observances

माघ-अष्टका-श्राद्धम्

māgha-aṣṭakā-śrāddham

ShannavatiDaysLessCommonFestivals
Timing Māgha (माघ) māsa, Kṛṣṇa Pakṣa Aṣṭamī, at अपराह्णः (vyaapti tithi rule)

स्मृत्यन्तरे—
अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
अथाष्टकाः। ताश्चतस्रः मार्गशीर्षादिमासचतुष्टयापरपक्षाष्टम्यः - तथा च शौनकः—
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अत्र विशेषमाह विष्णुः—
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्याः पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
कालादर्शेऽपि—
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
आश्वलायनः—
हेमन्तशिशिरर्त्वोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्या गृह्यस्य वर्त्मना इति।
बोधायनोऽपि—
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च॥२०॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥२१॥
माघे च सितसप्तम्यां मघाराकासमागमे।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि॥२२॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक्॥२३॥
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Names

Sanskrit
माघ-अष्टका-श्राद्धम्
Lunar Month 11. Māgha

Citations

  • `vaidyanAtha-dIkSitIyam`

View source TOML on GitHub ↗