Timing
Āṣāḍha (आषाढ) māsa, Śukla Pakṣa Pūrṇimā, at सूर्यास्तमयः
(puurvaviddha tithi rule)
कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते।
पूर्णिमायां समारभ्य व्रतं स्नायाद् बहिर्जले॥१८॥
पूर्णतं श्रावणे मासि गौरीरूपां च कोकिलाम्।
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्कजाम्॥१९॥
कस्तूरीवर्णसंयुक्तामुत्पन्नां नन्दने वने।
चूतचम्पकवृक्षस्थां कलगीतनिनादिनीम्॥२०॥
चिन्तयेत् पार्वतीं देवीं कोकिलारूपधारिणीम्।
गन्धाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे॥२१॥
ततो व्रतान्ते हैमीं वा तिलपिष्टमयीं द्विज।
दद्याद्विप्राय मन्त्रेण भक्त्या सस्वर्णदक्षिणाम्॥२२॥
देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे।
सम्पूज्य दत्ता विप्राय सर्वसौख्यकरी भव॥२३॥
द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः।
वस्त्रादिदक्षिणां शक्त्या दत्त्वा नत्वा विसर्जयेत्॥२४॥
एवं या कुरुते नारी कोकिलाव्रतमुत्तमम्।
सा लभेत्सुखसौभाग्यं सप्तजन्मसु नारद॥२५॥
Names
- Sanskrit
- कोकिला-व्रतम्