Calendrical Specials

कर्कट-सङ्क्रमण-पुण्यकालः

karkaṭa-saṅkramaṇa-puṇyakālaḥ

SunSankrantiCommonFestivals

घृतं च क्षीरकुम्भश्च घृतधेनु फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता॥
---वामनपुराणे (स्मृतिकौस्तुभम्)
घृतधेनुप्रदानं तु कर्कटे परिशस्यते॥
---स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
---वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने।
त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
---वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Karkaṭa-Saṅkramaṇa Punyakala. Perform danam of ghee, milk vessel, “ghee cow” and fruits. For karkaTa-saGkramaNa, the 30 ghatikas preceding the saGkramaNa form a puNyakAla; in general, the ghatikas closer to the puNyakAla are even more sacred.

Names

Sanskrit
कर्कट-सङ्क्रमण-पुण्यकालः

View source TOML on GitHub ↗