General Observances

काम-दहनम्

kāma-dahanam

CommonFestivalsPuranaEvents
Timing Phālguna (फाल्गुन) māsa, Śukla Pakṣa Caturdaśī, at निशीथः (paraviddha tithi rule)

फाल्गुनशुक्लचतुर्दश्यां कामदहनं कार्यम्। सा मध्यरात्रव्यापिनी ग्राह्या। तथा चोक्तं स्मृत्यन्तरे—
फल्गुने शुक्लपक्षे तु चतुर्दश्यां महानिशि।
प्रतिवर्षं दहेत् सम्यक् मृन्मयं मन्मथं नृप॥ इति।
अर्धरात्रव्याप्तिश्चतुर्धा—पूर्वेद्युः परेद्युरुभयेद्युरनुभयेद्युश्च।
उक्तं च भविष्यत्पुराणे—
यदा चतुर्दशी राजन् तपस्ये शुक्लपक्षके।
अर्धरात्रियुता या वै दाहयोग्या हि सा तिथिः॥ इति।
तृतीयचतुर्थपक्षयोरपि परा ग्राह्या।
तथा च स्कान्दे—
दिनद्वये निशीथे चेद्वर्तते च चतुर्दशी।
तथा परैव कर्तव्या दहने मन्मथस्य च॥ इति।
दिनद्वये यदा न स्यान्निशीथे च चतुर्दशी।
तदा ग्राह्या परैव स्यात् तत्रैव प्रदहेत् स्मरम्॥ इति।
चतुर्दश्यन्यदिने मन्मथदहने दोषस्मरणात्।
तथा च स्मृत्यन्तरे—
चतुर्दशीं परित्यज्य ह्यन्यथा प्रदहेत् स्मरम्।
ग्रामाधिपतिनाशः स्यात् गार्ग्यस्य वचनं यथा॥ इति।
क्वचिद्देशे त्रयोदश्यादिषु आश्रेषादिसम्पर्करहितदिने मन्मथं दग्ध्वा पूर्वावेधरहितोत्तरफल्गुनीयुतदिने विष्णुडोलोत्सवं कुर्वन्ति। कूर्मपुराणमतमवलम्ब्य रामानुजसिद्धान्तिनामिदं मतम्।

Names

Sanskrit
काम-दहनम्
Lunar Month 12. Phālguna

Citations

  • Vrata Nirnaya Kalpavalli p. 135

View source TOML on GitHub ↗