Timing
Māgha (माघ) māsa, Kṛṣṇa Pakṣa Amāvāsyā, at अपराह्णः
(vyaapti tithi rule)
स्मृत्यन्तरे—
अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
मत्स्यपुराणे—
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
महाभारतेऽपि—
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
कालादर्शेऽपि—
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥
पुरुषार्थचिन्तामणौ मनुः—
सहस्रगुणितं दानं भवेद्दत्तं युगादिषु।
कर्म श्राद्धादिकं चैव तथा मन्वन्तरादिषु॥
samudrasnAnam and zrAddham.Names
- Sanskrit
- कलियुगादिः
Citations
- `vaidyanAtha-dIkSitIyam`
- Purushartha Chintamani p. 507