Timing
Jyeṣṭha (ज्येष्ठ) māsa, Śukla Pakṣa Aṣṭamī, at अपराह्णः
(vyaapti tithi rule)
सूनुः केशवशङ्करस्य तपतीतीरोद्भवो नैष्ठिकः
श्रीमान् अच्युतकेशवः श्रितपदो वञ्चीश्वरे गीष्पतेः।
आदेशात् कृतसंयमश्च विमतान् आमूलम् उन्मूलयन्
आकाश्मीरम् अगान्महायतिरिति ख्यात्योज्ज्वलः शङ्करः॥३२॥
अष्टात्रिंशद् अथातिवाह्य शरदः पीठे जगद्देशिक-
स्यासीद् दिग्-रस-वार्धि-वह्निषु (३४६८) कलेर्यात्स्वक्षयेऽच्छे वृषे।
अष्टम्याम् अपहर्षशोकम् अजरं ब्रह्मैव यः शाश्वतं
काश्मीरेषु कलापुरे यदधुनाऽप्याख्यायतेऽस्याख्यया॥३३॥
—पुण्यश्लोकमञ्जरी
Names
- Sanskrit
- काञ्ची १६ जगद्गुरु-श्री-उज्ज्वल-शङ्करेन्द्र-सरस्वती-आराधना
Sources cited
- www.kamakoti.org