General Observances

जीवपुत्रिकाष्टमी/जीमूतवाहन-पूजा

jīvaputrikāṣṭamī

LessCommonFestivals
Timing Bhādrapada (भाद्रपद) māsa, Kṛṣṇa Pakṣa Aṣṭamī, at प्रदोषः (paraviddha tithi rule)

जीवत्पुत्रिकाऽष्टमी—
{[पूर्णिमान्त]}आश्विनकृष्णाष्टमी जीवत्पुत्रिकाख्या। तथा हि भविष्ये—
इषे मास्यसिते पक्षे चाष्टमी या तिथिर्भवेत्।
पुत्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्रिका॥
शालिवाहनराजस्य पुत्रो जीमूतवाहनः।
तस्यां पूज्यः स नारीभिः पुत्रसौभाग्यलिप्सया॥
इयमष्टमी प्रदोषव्यापिन्युपोष्या।
प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः।
पुष्करिणीं विधायाथ प्राङ्गणे चतुरस्रिकाम्॥
इति भविष्यपुराणात्।
यद्युभयदिने प्रदोषव्याप्तिः तदाऽपरेऽहन्येव प्रधानकालानुरोधात्, नवम्यधिकरणकपारणानुरोधाच्च
पूर्वदिने व्रते तु वक्ष्यमाणवचनेन अष्टम्यां पारणे दोषश्रवणेन तदन्ते निशिपारणनिषेधेन च उपवासद्वयापत्तिः।
यदि पूर्वेयुः प्रदोषव्याप्तिर्न परेद्युरिति तदा पूर्वेयुरेव प्रदोषानुरोधबोधकपूर्वोक्तवचनात्।
पूर्वेद्युरपरेद्युर्वा प्रदोषे यत्र चाष्टमी।
तत्र पूज्यः सदा स्त्रीभी राजा जीमूतवाहनः॥
इति विष्णुधर्मोत्तरीयाच्च।
—कृत्यसारसमुच्चयः

Women fast on this day for obtaining progeny, and also perform puja of Jimutavahana. Jimutavahana is an atma-tyagi vidyadhara chakravarti. He saved Shankhachuda’s (Naaga) life by offering himself to Garuda. From that day, Garuda stopped eating snakes.

Names

Sanskrit
जीवपुत्रिकाष्टमी/जीमूतवाहन-पूजा
Lunar Month 06. Bhādrapada

Citations

  • Krtyasarasamucchaya p. 19
  • Aamade Jyotishi

View source TOML on GitHub ↗