Timing
Phālguna (फाल्गुन) māsa, Śukla Pakṣa Pūrṇimā, at प्रदोषः
(paraviddha tithi rule)
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम्॥१२४-७६॥
सञ्चयं सर्वकाष्ठानामुपलानां च कारयेत्।
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः॥१२४-७७॥
असृक्पाभयसन्त्रस्तैः कृता त्वं होलि बालिशैः।
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव॥१२४-७८॥
इति मन्त्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः।
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः॥१२४-७९॥
होलिका राक्षसी चेयं प्रह्लादभयदायिनी।
ततस्तां प्रदहन्त्येवं काष्ठाद्यैर्गीतमङ्गलैः॥१२४-८०॥
Names
- Sanskrit
- होलिका-पूर्णिमा