द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥
निवेदन-मन्त्रः (कात्यायनः)---
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे---
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥
dvAdazI tithi is not suitable for breaking fast (pAraNa), and is known as harivAsaraH. Break fast once harivAsaraH is over.Names
- Sanskrit
- हरिवासरः