General Observances

गुरु-पूर्णिमा/व्यास-पूजा

guru-pUrNimA_or_vyAsa-pUjA

PurnimaDaysSpecialPujaCommonFestivals
Timing Āṣāḍha (आषाढ) māsa, Śukla Pakṣa Pūrṇimā, at साङ्गवः (puurvaviddha tithi rule)

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अफाललोचनो शम्भुर्भगवान् बादरायणः॥
अभ्र-श्यामः पिङ्ग-जटा-बद्ध-कलापः
प्रांशुर्दण्डी कृष्णमृग-त्वक्-परिधानः।
सर्वान् लोकान् पावयमानः कवि-मुख्यः
पाराशर्यः पर्व-सुरूपं विवृणोतु॥
व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुक-तातं तपोनिधिम्॥
कृष्ण-द्वैपायनं व्यासं सर्व-भूत-हिते रतम्।
वेदाब्ज-भास्करं वन्दे शमादि-निलयं मुनिम्॥
विश्वरूपं च विश्वेशं विश्व-सत्ता-प्रदं शिवम्।
वेदयोनिमहं वन्दे व्यासं वेदार्थ-सिद्धिदम्॥
जयति पराशरसूनुः
सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं
वाङ्मयममृतं जगत् पिबति॥

Puja of Veda Vyasa / Gurus; Danam of Vishnu Purāṇam is good on this day.

Names

Sanskrit
गुरु-पूर्णिमा/व्यास-पूजा

View source TOML on GitHub ↗