Timing
Jyeṣṭha (ज्येष्ठ) māsa, Śukla Pakṣa Trayodaśī
ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम्॥१८॥
तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम्।
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम्॥१९॥
निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा।
मन्दारकरवीरार्का भवन्तो भास्करांशजाः॥२०॥
पूजिता मम दौर्भाग्यं नाशयन्तु नमोऽस्तु वः।
इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम्॥२१॥
नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा॥
—नारदपुराणे बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः
Names
- Sanskrit
- दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी