Calendrical Specials

दिनक्षयः

dinakṣayaḥ

RareDays

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
भारद्वाजः—
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
संवर्त्तः—
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

पुरुषार्थचिन्तामणौ—
हेमाद्रौ याज्ञवल्क्यः—
शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
तत्रैव वाराहपुराणे—
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
...
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

A day within which two consecutive tithis end is called dinakSaya. On such days, dAna, japa, snAna, hOma yield many-fold puNya. Such days are also good to propitiate the pitR-s, and for performing parAyaNam of dhruvacaritam from zrImadbhAgavatam etc.

Names

Sanskrit
दिनक्षयः

Citations

  • Smriti Muktaphalam Varnashrama Dharma Kanda

View source TOML on GitHub ↗