General Observances

दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

daśaharā òr gaṅgāvataraṇam òr daśapāpaharā daśamī

OtherJayantisCommonFestivals
Timing Jyeṣṭha (ज्येष्ठ) māsa, Śukla Pakṣa Daśamī

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥
कृत्यसारसमुच्चये—
एतद्दशमीमभिधाय स्कान्दे—
यां काश्चित्सरितं प्राप्य दद्यादर्घ्यतिलोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥
दशपापान्याह राजमार्तण्डे—
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वतः।
असम्बद्धप्रलापं च वाङ्मयं स्याच्चतुर्विधम्॥
अदत्तानामुपादानं हिंसा चैवाविधानतः।
परदारोपसेवा च कायिकं त्रिविधं मतम्॥
परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम्।
वितथाभिनिवेशश्च मानसं त्रिाविधं स्मृतम्॥
अस्यां गङ्गास्नाने सङ्कल्पः ॐ अद्येत्यादि दशविधपापक्षयकाले गङ्गायां स्नानमहं करिष्ये इति।
[पुरुषार्थचिन्तामणिः पृ १४५] ज्येष्ठे मले तत्रैवेदं कर्तव्यम्—
दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु।
उपाकर्म महापष्ठयोर्ह्येतदिष्टं वृषादितः॥
इति हेमाद्रौ ऋष्यशृङ्गवचनात्।

Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (dazaharA). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

Names

Sanskrit
दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी
Lunar Month 03. Jyeṣṭha
Tithi Daśamī

Citations

  • Nirnaya Sindu, Valmiki Ramayanam

View source TOML on GitHub ↗