Timing
Āśvina (आश्विन) māsa, Śukla Pakṣa Pratipat, at साङ्गवः
अथाश्विनशुक्लप्रतिपदि दौहित्रेण मातामहश्राद्धं कार्यम्॥
तदुक्तं हेमाद्रौ---
जातमात्रोऽपि दौहित्रो जीवत्यपि च मातुले।
कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते॥
इयं च सङ्गवव्यापिनी ग्राह्येति निर्णयदीपे उक्तम्॥
प्रतिपद्याश्विन शुक्ले दौहित्रस्त्वेकपार्वणम्।
श्राद्धं मातामहं कुर्यात् सपिता सङ्गवे सति॥
जातमात्रोऽपि दौहित्रो जीवत्यपि हि मातुले।
प्रातः सङ्गवयोर्मध्ये याऽश्वयुक्प्रतिपद् भवेत्॥
अत्र सपिता इति विशेषणाज्जीवत्पितृक एवाधिकारी पिण्डरहितं कुर्यात्॥
मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च॥
इति पिण्डनिषेधात्॥
Names
- Sanskrit
- दौहित्र-प्रतिपत्