मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गाः
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्तिः
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥
Names
- Sanskrit
- चिदम्बरे नटराजस्य राजसभायां महाभिषेकः