रामार्चनचन्द्रिकायां---
पारणाहे पूर्वरात्रौ घण्टादीन् वादयेद्बहून्।
विधाय महतीं पूजां विष्णुमभ्यर्च्य वैष्णवान्।
इत्युपक्रम्य भगवत्प्रार्थनापूर्वकं व्रतस्वीकारस्योक्तत्वात्।
तद्यथा---
सुप्ते त्वयि जगन्नाथेति पूर्वोदाहृतमन्त्रेण सम्प्रार्थ्य भगवदग्रे व्रतस्वीकारं कुर्यात्।
सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम्।
विबुद्धे त्वयि बुध्येत तत्सर्व सचराचरम्॥
श्वेतद्वीपे भोगिनाथे योगिनाथे स्थिते त्वयि।
चातुर्मास्यव्रतेऽनुज्ञां देहि लक्ष्मीपते मम।
लब्ध्वाऽनुज्ञां शङ्खहस्तो यथा प्रोषितभर्तृका।
चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि।
इमं करिष्ये नियमं निर्विघ्नं कुरु मेऽच्युत॥
इदं व्रतं मया देव गृहीतं पुरतस्तव।
निर्विघ्नं सिद्धिमायातु प्रसादात्ते रमापते॥
गृहीतेऽस्मिन् व्रते देव पञ्चत्वं यदि मे भवेत्।
तदा भवतु सम्पूर्णं प्रसादात् ते जनार्दन।
इत्यभ्यर्थ्याथ देवाय शङ्खेनार्घ्यं निवेदयेत्।
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा।
दुग्धमाश्वयुजे मासि कार्तिके चामिषं त्यजेत्।
प्राण्यङ्गचूर्णं चर्माम्बु जम्बीरं बीजपूरकम्॥
अयज्ञशिष्टमन्नाद्यं यद्विष्णोरनिवेदितम्।
दग्धमन्नं मसूरं च मांसं चेत्यष्टधाऽऽमिषम्॥
रुच्यं तत्तद्देशलभ्यं फलमूलादि वर्जयेत्।
निष्पावानराजमाषांश्च मसूरं सन्धितानि च॥
वृन्ताकं च कलिङ्ग च सुप्ते देवे विवर्जयेत्।
चतुर्वपि हि मासेषु हविष्याशी न पापभाक्॥
हैमन्तिकं सितास्विन्नं धान्यं मुद्गयवास्तिलाः।
कपालकङ्गुनीवारं वास्तुकं हिमलोचिका॥
पष्टिका कालशाकं च मूलकं केमुकेतरत्।
कन्दं सैन्धवसामुद्रे गव्ये च दधिसर्पिषी॥
पयोनुद्धृतसारं च पनसाम्रहरीतकीः।
पिप्पली जीरकं चैव नागरं चाथ तिन्त्रिणी॥
कदलीलवलीधात्रीफलान्यगुडमैक्षवम्।
अतैलपक्वं मुनयो हविष्याणि प्रचक्षते॥ इति।
[सन्धितानि लवणशाकान्। सितास्विन्नं गौडेषु प्रसिद्धो धान्यविशेषः।
स च हेमन्तोत्पन्न एव हविष्यम्। कलायं कुलित्थः।
कङ्गु काङ्ग इति भाषया प्रसिद्धम्। हिलमोचिका गौडेषु हिलासा इति प्रसिद्धः पत्रशाकः।
कालशाकः पर्वतदेशे प्रसिद्धः शाकः। केमुकं केम्बु इति गौडेषु प्रसिद्धम्।
मूलकम्। कन्दः सूरणः। नागरं शुण्ठिः।
लवली रायआंवळी इति महाराष्ट्रे प्रसिद्धा। हरफारेवडी इति।
मध्यदेशे अतैलपक्कमिति उक्तानां विशेषणम्।]
नृसिंहपरिचर्यायां भविष्ये---
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा।
दुग्धमाश्वयुजे मासि कार्तिके द्विदलं त्यजेत्। इति।
पाद्मे---
कार्तिके वर्जयेद् राजन्द्विदलं बहुबीजकम्। इति।
द्विदलं च तत्रैव---
माषमुद्गमसूराश्च चणकाश्च कुलित्थकाः।
निष्पावा राजमाषाश्च आढक्यो द्विदलं स्मृतम्।
नूतनान्यपि जीर्णानि सर्वाण्येतानि वर्जयेत्। इति।
अन्यत्र च---
बीजमेव समुद्भूतं द्विदलं चाङ्कुरं विना।
दृश्यते यत्र सस्येषु द्विदलं तन्निगद्यते। इति।
एतेषामेव नित्यत्वमुक्तं स्कान्दे---
चत्वार्यतानि नित्यानि चतुराश्रमवर्णिनाम्। इति।
तत्रैव---
द्विदलं बहुबीजं च वृन्ताकं च विवर्जयेत्।
जम्बीरं राजमाषांश्च मूलकं रक्तमूलकम्।
कूष्माण्डं चेक्षुदण्डं च चातुर्मास्ये त्यजेद् बुधः।
बहुबीजग्रहणेन प्राप्तनिषेधस्यापि वृन्ताकस्य पुनर्वचनं दोषाधिक्यार्थम्। एवं रक्तमूलकस्यापि।
ASADha-zravaNa, zAkavratam is observed; in zravaNa--bhAdrapada, dadhi-vratam is observed; in bhAdrapada-Azvina, payO-vratam is observed, and in Azvina--kArtika, dvidala-vratam is observed.
Pradakshina to Pippala; Deeparadhana in temple; Saraswati Pooja.Names
- Sanskrit
- चातुर्मास्यव्रत-आरम्भः