Devatā Observances

चातुर्मास्य-द्वितीया

cāturmāsya-dvitīyā 2

LessCommonFestivals
Timing Kārtika (कार्तिक) māsa, Kṛṣṇa Pakṣa Dvitīyā, at अपराह्णः (vyaapti tithi rule)

कार्तिककृष्णद्वितीया चातुर्मास्यद्वितीया। अस्या निर्णयस्तु आषाढकृष्ण-
द्वितीयाप्रकरणे विशेषेणोक्तः। एषा अपराह्णव्यापिनी ग्राह्या। श्राद्धदिनत्वात्।
व्रतनिर्णयकल्पवल्ल्याम्---
उक्तञ्च वृद्धगार्ग्येण---
शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः॥ इति।
(स्मृतिमुक्ताफले) हारीतः---
चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्॥
गौतमोऽपि---
कार्तिकी फाल्गुन्याषाढी पौर्णमासीति तिस्रोऽष्टकास्त्रिरात्रमिति॥
उक्तपौर्णमासीरारभ्य त्रिरात्रम्।

Shraaddha dinam. Three dvitIyA tithis, in ASADha, kArttika and phAlguna are known as cAturmAsya-dvitIyA. These are anadhyayana days.

Names

Sanskrit
चातुर्मास्य-द्वितीया
Lunar Month Kārtika
Tithi Dvitīyā

Sources cited

  • VrataNirnayaKalpavalli

View source TOML on GitHub ↗