Timing
Āśvina (आश्विन) māsa, Śukla Pakṣa Daśamī, at सूर्यास्तमयः
(puurvaviddha tithi rule)
आश्विनशुक्लदशम्यां सायं बुद्धोऽभूत्॥
---धर्मसिन्धौ
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने।
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे॥२२॥
---श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे चत्वारिंशोऽध्यायः
श्रीवराह उवाच---
मत्स्यं कूर्मं वराहं च नरसिंहं च वामनम्॥
रामं रामं च कृष्णं च बुद्धं चैव च कल्किनम्।
एवं दशावतारांश्च पूजयेद् भक्तिसंयुतः॥२११-६९॥
---वराह-पुराणम्
पद्मपुराणे---
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम्।
रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते॥६-६६-५१॥
स्मृतिमुक्ताफले---
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
Names
- Sanskrit
- बुद्ध-जयन्ती