Timing
Āśvina (आश्विन) māsa, Śukla Pakṣa Daśamī, at सूर्यास्तमयः
(puurvaviddha tithi rule)
आश्विनशुक्लदशम्यां सायं बुद्धोऽभूत्॥
—धर्मसिन्धौ
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने।
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे॥२२॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे चत्वारिंशोऽध्यायः
श्रीवराह उवाच—
मत्स्यं कूर्मं वराहं च नरसिंहं च वामनम्॥
रामं रामं च कृष्णं च बुद्धं चैव च कल्किनम्।
एवं दशावतारांश्च पूजयेद् भक्तिसंयुतः॥२११-६९॥
—वराह-पुराणम्
पद्मपुराणे—
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम्।
रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते॥६-६६-५१॥
स्मृतिमुक्ताफले—
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
Names
- Sanskrit
- बुद्ध-जयन्ती