वालखिल्या ऊचुः---
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः।
एकादश्यां तु गृह्णीयाद् व्रतं पञ्चदिनात्मकम्॥१॥
शरपञ्जरसुप्तेन भीष्मेण तु महात्मना।
राजधर्मा मोक्षधर्मा दानधर्मास्ततः परम्।
कथिता पाण्डुदायादैः कृष्णेनापि श्रुतास्तदा॥२॥
ततः प्रीतेन मनसा वासुदेवेन भाषितम्।
धन्यधन्योऽसि भीष्म त्वं धर्माः संश्रावितास्त्वया॥३॥
एकादश्यां कार्तिकस्य याचितं च जलं त्वया।
अर्जुनेन समानीतं गाङ्गं बाणस्य वेगतः॥४॥
तुष्टानि तव गात्राणि तस्मादद्यदिनावधि।
पूर्णान्तं सर्वलोकास्त्वां तर्पयन्त्वर्घ्यदानतः॥५॥
तस्मात् सर्वप्रयत्नेन मम सन्तुष्टिकारकम्।
एतद् व्रतं प्रकुर्वन्तु भीष्मपञ्चकसंज्ञितम्॥६॥
कार्तिकस्य व्रतं कृत्वा न कुर्याद् भीष्मपञ्चकम्।
समग्रं कार्तिकव्रतं वृथा तस्य भविष्यति॥७॥
अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके।
भीष्मस्य पञ्चकं कृत्वा कार्तिकस्य फलं लभेत्॥८॥
सत्यव्रताय शुचये गाङ्गेयाय महात्मने।
भीष्मायैतद् ददाम्यर्घ्यमाजन्मब्रह्मचारिणे॥९॥
सव्येनानेन मन्त्रेण तर्पणं सार्ववर्णिकम्॥१०॥
व्रताङ्गत्वात् पूर्णिमायां प्रदेयः पापपूरुषः।
अपुत्रेण प्रकर्तव्यं सर्वथा भीष्मपञ्चकम्॥११॥
यः पुत्रार्थं व्रतं कुर्यात् सस्त्रीको भीष्मपञ्चकम्।
प्रदत्त्वा पापपुरुषं वर्षमध्ये सुतं लभेत्॥१२॥
अवश्यमेव कर्तव्यं तस्माद् भीष्मस्य पञ्चकम्।
विष्णुप्रीतिकरं प्रोक्तं मया भीष्मस्य पञ्चकम्॥१३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये भीष्मपञ्चकव्रतमाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः॥३२॥
zaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days. On the eleventh day in the month of Kārttika, Bhisma requested for water, and his thirst was quenched by Arjun, who brought the water of Gaṅgā by an arrow. Hence, Lord Krishna blessed Bhisma that all the people should offer libations to Bhishma and propitiate him beginning from Ekadashi and ending on the full-moon day. The Skanda Purana describes this highly meritorious ritual, Bhīṣmapañcaka Vrata, performed over five days during the bright half of the month of Kārttika. It includes specific practices like offering libations and Arghya to Bhīṣma. This Vrata is noted for its difficulty; it includes the worship of Lord Hari, and the use of specific offerings like cowdung, honey, milk, and ghee for purification rituals. The observance of this Vrata brings immense spiritual benefits, including the eradication of sins and contentment for numerous births.Names
- Sanskrit
- भीष्म-पञ्चक-व्रत-आरम्भः