Devatā Observances

भद्रकाली-व्रतम्

bhadrakāḻī-vratam

SpecialVratamLessCommonFestivals
Timing Āśvina (आश्विन) māsa, Śukla Pakṣa Navamī

अथाश्विनशुक्लनवम्यां भद्रकालीव्रतं हेमाद्रौ विष्णुधर्मे—
राजोवाच—
विधिना पूजयेत् केन भद्रकालीं नराधिप।
नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम॥
पुष्कर उवाच—
पूर्वोत्तरे तु दिग्भागे शिवे वास्तुमनोहरे।
भद्रकाल्या गृहं कार्यं चित्रवस्त्रैरलङ्कृतम्॥
भद्रकाली पटे कृत्वां तत्र सम्पूजयेद् द्विज।
अष्टादशभुजा कार्या भद्रकाली मनोहर॥
आलीढस्थानसंस्थाना चतुःसिंहरथे स्थिता।
अक्षमाला त्रिशूलं च खड्गश्चर्म च पार्थिव॥
बाणचापे च कर्तव्यं शङ्खपद्मे तथैव च।
स्रुक्स्रुवौ च तथा कार्यो तथा वेदिकमण्डलु॥
दन्तशक्ती च कर्तव्ये तथा पाशहुताशनौ।
हस्तानां भद्रकाल्याश्च भवेत् कान्तिकरः परः॥
एकश्चैव महाभाग रत्नपात्रधरो भवेत्।
आश्विने शुक्लपक्षस्य अष्टम्यां प्रयतः शुचिः॥
तत्र चायुधचर्माद्यं छत्रं वस्त्रं च पूजयेत्।
राजलिङ्गानि सर्वाणि तथा शस्त्राणि पूजयेत्॥
पुष्पैर्मेध्यैः फलैर्भक्ष्यैर्भोज्यैश्च सुमनोहरैः।
बलिभिश्च विचित्रैश्च प्रेक्ष्यादानस्तथैव च॥
रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिप।
उपोषितो द्वितीयेऽह्नि पूजयेत् पुनरेव ताम्॥
आयुधाद्यं च सकलं पूजयेद्वसुधाधिप।
एवं सम्पूजयेद्देवीं वरदां भक्तवत्सलाम्॥
कात्यायनीं कामगमां बहुरूपां वरप्रदाम्।
पूजिता सर्वकामैः सा युनक्ति वसुधाधिप॥
एवं हि सम्पूज्य जगत्प्रधानां
यात्रा तु कार्या वसुधाधिपेन।
प्राप्नोति सिद्धिं परमां महेशो
जनस्तथाऽन्योऽपि च वित्तशक्त्या॥

Names

Sanskrit
भद्रकाली-व्रतम्
Lunar Month 07. Āśvina
Devatā Śākta
Tithi Navamī

Citations

  • Hemadri
  • Vrataraja

View source TOML on GitHub ↗