Timing
Bhādrapada (भाद्रपद) māsa, Śukla Pakṣa Ṣaṣṭhī, at मध्याह्नः
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
—स्मृतिमुक्ताफलम्
अथ व्रजे पञ्चदिनेषु भाद्रे
स्वातौ च षष्ठ्यां च सिते बुधे च।
उच्चैर्ग्रहैः पंचभिरावृते च
लग्ने तुलाऽऽख्ये दिनमध्यदेशे॥९॥
प्रार्थनामन्त्रः—
नमस्ते हलिनां श्रेष्ठ नमस्ते मुसलायुध।
नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल॥
नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर।
प्रलम्बघ्न नमस्तेऽस्तु त्राहि मां कृष्णपूर्वज॥
Names
- Sanskrit
- बलराम-जयन्ती