Devatā Observances

आश्विन-नाग-पञ्चमी

āśvina-nāga-pañcamī

SpecialPuja
Timing Āśvina (आश्विन) māsa, Śukla Pakṣa Pañcamī

सुमन्तुरुवाच
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनन्दन।
कृत्वा कुशमयानागान् गन्धाद्यैः सम्प्रपूजयेत्॥१॥
घृतोदकाभ्यां पयसा स्नपयित्वा विशाम्पते।
गोधूमैः पयसा स्विनैर्भक्ष्यैश्च विविधैस्तथा॥२॥
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः।
पूजयेत् कुरुशार्दूल तस्य शेषादयो नृप॥३॥
नागाः प्रीता भवन्तीह शान्तिमाप्नोति वा विभो।
स शान्तिलोकमासाद्य मोदते शाश्वतीः समाः॥४॥
इत्येष कथितो बीर पञ्चमीकल्प उत्तमः।
यत्रायमुच्यते मन्त्रः सर्वसर्पनिषेधकः॥६॥
(ॐ कुरुकुल्ले फट् स्वाहा।)
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे समाप्तिकथनं नाम अष्टत्रिंशोऽध्यायः॥

Aashvina Naga Panchami.

Names

Sanskrit
आश्विन-नाग-पञ्चमी
Lunar Month Āśvina
Devatā Fauna
Tithi Pañcamī

View source TOML on GitHub ↗