Calendrical Specials

अर्धोदय-पुण्यकालः

ardhodaya-puṇyakālaḥ

RareDaysCombinations

कृत्यसारसमुच्चयः---
महाभारते---
अमाऽर्कपातश्रवणैर्युता चेत्पौषमाघयोः।
अर्धोदयः स विज्ञेयः कोटिसूर्यग्रहैः समः॥
तथा हि तिथितत्त्वचिन्तामणिधृतवचनम्---
दिवैव योगशस्तोऽयं न तु रात्रौ कदाचन। इति
फलमाह---
अर्धोदये तु सम्प्राप्ते सर्वं गङ्गासमं जलम्।
शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्मसन्निभाः।
यत्किञ्चिद् दीयते दानं तद्दानं मेरुसन्निभम्॥
अत्र सङ्कल्पः---
ओमद्य + मम सूर्यग्रहणकालीनगङ्गास्नानजन्यफलकोटिगुणप्राप्तिकामोऽर्धोदये गङ्गायां स्नानमहं करिष्ये।

A rare combination of Pausha masa, Shravana nakshatra, Vyatipata yoga and Sunday.

Names

Sanskrit
अर्धोदय-पुण्यकालः

View source TOML on GitHub ↗