Calendrical Specials

अनध्यायः

anadhyāyaḥ doṣa

Anadhyayana Days

लिखितः—
छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकीर्तिताः।
छिद्रेभ्यः स्रवति ब्रह्म ब्राह्मणेन यदार्जितम्।
तत्काले तस्य रक्षांसि श्रियं ब्रह्म यशो बलम्।
सर्वमादाय गच्छन्ति वर्जयन्ति च तत्फलमिति॥
स्मृत्यन्तरे—
अनध्यायेष्वधीयीत द्विजः स्तैन्यं करोति यः॥
अनध्यायेष्वध्ययने प्रज्ञामायुः श्रियं तथा।
ब्रह्म वीर्यं च तेजश्च निकृन्तति यमः स्वयम्॥
ब्रह्मवीर्यक्षयभयादिन्द्रो वज्रेण हन्ति च।
ब्रह्मराक्षसता चान्ते नरकञ्च भवेद्ध्रुवम्॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः।
आयुरस्य निकृन्तामि प्रज्ञामस्याददेऽथ वा॥
य उच्छिष्टः प्रवदति स्वाध्यायं वाऽधिगच्छति।
यश्चानध्यायकालेऽपि मोहादभ्यसति द्विजः।
तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचनेति॥

Likhita Maharshi has said that the Anadhyayana times are like holes, and by performing adhayayana during these times, the Veda flows (leaks away) like water from a vessel with holes. Furthermore, his wealth, Vedas, fame, strength and the benefits of the Vedas are taken away by Rakshasas! Other Smritis have also highly emphasised the negative effects of performing adhyayana during anadhyayana kAlas.

Names

Sanskrit
अनध्यायः

View source TOML on GitHub ↗