Timing
Śukla Pakṣa Pratipat, at साङ्गवः
(paraviddha tithi rule)
हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥
vidyA of a scholar continuing his studies on a pratipat!Names
- Sanskrit
- अनध्यायः