Calendrical Specials

आमलकी-एकादशी

āmalakī-ekādaśī

MonthlyVratamEkadashiVratamLessCommonFestivals

फाल्गुने मासि शुक्लायामेकादश्यां जनार्दनः।
वसत्यामलकीवृक्षे लक्ष्म्या सह जगत्पतिः॥
तत्र सम्पूज्य देवेशं शक्त्या कुर्यात् प्रदक्षिणाम्।
उपोष्य विधिवत् कल्पं विष्णुलोके महीयते॥ (नृसिंहपरिचर्या)

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
--पद्मपुराणे

श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदं प्रति शिवोपदेशे भक्ष्याभक्ष्यादिविवरणं नाम सप्तविंशतितमोऽध्यायः—
एकादश्यामनाहारं गृही विप्रश्च भारते।
स च तिष्ठति वैकुण्ठे यावद्वै ब्रह्मणो वयः॥१४॥

एकादश्युपवासफलं प्रोक्तं पाद्ममहापुराणे—
शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्॥३५॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
सङ्क्रान्तिषु चतुर्लक्षं यो ददाति नृपोत्तम॥३६॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः॥३७॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते॥३८॥
तथा चैकादशी पार्थ गर्भवासक्षयङ्करी।
अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत्॥३९॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
तपस्विनो गृहे यस्य भुञ्जते च द्विजोत्तमाः॥४०॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
गोसहस्रेण यत्पुण्यं दत्वा वेदान्तपारगे॥४१॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः॥४२॥
वसन्ति तेषां ते तुल्या एकादश्युपवासिनः।
ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः॥४३॥
एकादशीव्रतस्यापि पुण्यसङ्ख्या न विद्यते।
एतत्पुण्यं भवेत् तस्य यत्सुरैरपि दुर्लभम्॥४४॥
एकादशीसमं नास्ति व्रतं पापप्रणाशनम्॥११८॥
—श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे एकादश्युत्पत्ति-मुरवधो नाम चत्वारिंशोऽध्यायः॥४०॥

Names

Sanskrit
आमलकी-एकादशी

View source TOML on GitHub ↗