कृत्यसारसमुच्चयः---
ब्रह्मवैवर्ते---
अप्राप्ते भास्करे कन्यां शेषभूतैत्रिभिर्दिनैः।
अर्घं दद्युरगस्त्याय गौडदेशनिवासिनः॥
नारसिंहे---
शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम्।
मन्त्रेणानेन वै दद्याद् दक्षिणाभिमुखः स्थितः॥
अनेन ‘शङ्खं पुष्पं फलं तोयम्’ इत्यादि मन्त्रेण। अत्र दिनत्रये मन्त्रत्रयं यथा---
कुम्भयोनिसमुत्पन्न मुनीनां मुनिसत्तम।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥१॥
शङ्खं पुष्पं फलं तोयं रत्नानि विविधानि च।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥२॥
काशपुष्पप्रतीकाश वह्निमारुतसम्भव।
उदयं ते लङ्काद्वारेऽर्घोऽयं प्रतिगृह्यताम्॥३॥
इति केचित्। रसमालायां तु प्रथमदिने तृतीयमन्त्रः, द्वितीये-प्रथममन्त्रः इति भेदः।
Names
- Sanskrit
- अगस्त्यार्घ्यम्